Сударшана - аштоттарашата - нама - стотра — КиберПедия 

Организация стока поверхностных вод: Наибольшее количество влаги на земном шаре испаряется с поверхности морей и океанов (88‰)...

Папиллярные узоры пальцев рук - маркер спортивных способностей: дерматоглифические признаки формируются на 3-5 месяце беременности, не изменяются в течение жизни...

Сударшана - аштоттарашата - нама - стотра

2022-09-22 43
Сударшана - аштоттарашата - нама - стотра 0.00 из 5.00 0 оценок
Заказать работу

श्रीसुदर्शनाष्टोत्तरशतनामस्तोत्रम्

sudarśanāṣṭottaraśatanāmastotram

 

सुदर्शनश्चक्रराजः तेजोव्यूहो महाद्युतिः ।
सहस्रबाहु-र्दीप्ताङ्गः अरुणाक्षः प्रतापवान् ॥१॥

अनेकादित्यसङ्काशः प्रोद्यज्ज्वालाभिरञ्जितः ।
सौदामिनी-सहस्राभः मणिकुण्डल-शोभितः ॥२॥

पञ्चभूतमनोरूपो षट्कोणान्तर-संस्थितः ।
हरान्तः करणोद्भूत-रोषभीषण-विग्रहः ॥३॥

हरिपाणिलसत्पद्मविहारारमनोहरः ।
श्राकाररूपस्सर्वज्ञः सर्वलोकार्चितप्रभुः ॥४॥

चतुर्दशसहस्रारः चतुर्वेदमयो-ऽनलः ।
भक्तचान्द्रमसज्योतिः भवरोग-विनाशकः ॥५॥

रेफात्मको मकारश्च रक्षोसृग्रूषिताङ्गकः ।
सर्वदैत्यग्रीवनाल-विभेदन-महागजः ॥६॥

भीमदंष्ट्रोज्ज्वलाकारो भीमकर्मा विलोचनः ।
नीलवर्त्मा नित्यसुखो निर्मलश्री-र्निरञ्जनः ॥७॥

रक्तमाल्यांबरधरो रक्तचन्दनरूषितः ।
रजोगुणाकृतिश्शूरो रक्षःकुल-यमोपमः ॥८॥

नित्यक्षेमकरः प्राज्ञः पाषण्डजनखण्डनः ।
नारायणाज्ञानुवर्ती नैगमान्तःप्रकाशकः ॥९॥

बलिनन्दनदोर्दण्ड-खण्डनो विजयाकृतिः ।
मित्रभावी सर्वमयो तमोविध्वंसकस्तथा ॥१०॥

रजस्सत्त्वतमोद्वर्ती त्रिगुणात्मा त्रिलोकधृत् ।
हरिमायागुणोपेतो-ऽव्ययो-ऽक्षस्वरूपभाक् ॥११॥

परमात्मा परंज्योतिः पञ्चकृत्य-परायणः ।
ज्ञानशक्ति-बलैश्वर्य-वीर्य-तेजः-प्रभामयः ॥१२॥

सदसत्परमः पूर्णो वाङ्मयो वरदोऽच्युतः ।
जीवो गुरुर्हंसरूपः पञ्चाशत्पीठरूपकः ॥१३॥

मातृकामण्डलाध्यक्षो मधुध्वंसी मनोमयः ।
बुद्धिरूपश्चित्तसाक्षी सारो हंसाक्षरद्वयः ॥१४॥

मन्त्र-यन्त्र-प्रभावज्ञो मन्त्र-यन्त्र-मयो विभुः ।
स्रष्टा क्रियास्पद-श्शुद्धः आधारश्चक्र-रूपकः ॥१५॥

निरायुधो ह्यसंरम्भः सर्वायुध-समन्वितः ।
ओम्काररूपी पूर्णात्मा आंकारस्साध्य-बन्धनः ॥१६॥

ऐंकारो वाक्प्रदो वग्मी श्रींकारैश्वर्यवर्धनः ।
क्लींकारमोहनाकारो हुंफट्क्षोभणाकृतिः ॥१७॥

इन्द्रार्चित-मनोवेगो धरणीभार-नाशकः ।
वीराराध्यो विश्वरूपः वैष्णवो विष्णुरूपकः ॥१८॥

सत्यव्रतः सत्यधरः सत्यधर्मानुषङ्गकः ।
नारायणकृपाव्यूह-तेजश्चक्र-स्सुदर्शनः ॥१९॥

 

॥ श्री सुदर्शनाष्टोत्तरशतनाम स्तोत्रं संपूर्णम् ॥

 

***


 

СУДАРШАНА - АШТОТТАРАШАТА - НАМА ВАЛИ

श्रीसुदर्शनाष्टोत्तरशतनामावली

sudarśanāṣṭottaraśatanāmāvalī

 

॥ श्रीः ॥

 

ॐ श्री सुदर्शनाय नमः ।

ॐ चक्रराजाय नमः ।

ॐ तेजोव्यूहाय नमः ।

ॐ महाद्युतये नमः ।

ॐ सहस्र-बाहवे नमः । ५।

ॐ दीप्ताङ्गाय नमः ।

ॐ अरुणाक्षाय नमः ।

ॐ प्रतापवते नमः ।

ॐ अनेकादित्य-संकाशाय नमः ।

ॐ प्रोद्यज्ज्वालाभिरञ्जिताय नमः । १०।

ॐ सौदामिनी-सहस्राभाय नमः ।

ॐ मणिकुण्डल-शोभिताय नमः ।

ॐ पञ्चभूतमनो-रूपाय नमः ।

ॐ षट्कोणान्तर-संस्थिताय नमः ।

ॐ हरान्तःकरणोद्भूतरोष-

भीषण विग्रहाय नमः । १५।

ॐ हरिपाणिलसत्पद्मविहार-

मनोहराय नमः ।

ॐ श्राकाररूपाय नमः ।

ॐ सर्वज्ञाय नमः ।

ॐ सर्वलोकार्चितप्रभवे नमः ।

ॐ चतुर्दशसहस्राराय नमः । २०।

ॐ चतुर्वेदमयाय नमः ।

ॐ अनलाय नमः ।

ॐ भक्तचान्द्रमस-ज्योतिषे नमः ।

ॐ भवरोग-विनाशकाय नमः ।

ॐ रेफात्मकाय नमः । २५।

ॐ मकाराय नमः ।

ॐ रक्षोसृग्रूषिताङ्गाय नमः ।

ॐ सर्वदैत्यग्रीवानाल-विभेदन-

महागजाय नमः ।

ॐ भीम-दंष्ट्राय नमः ।

ॐ उज्ज्वलाकाराय नमः । ३०।

ॐ भीमकर्मणे नमः ।

ॐ त्रिलोचनाय नमः ।

ॐ नीलवर्त्मने नमः ।

ॐ नित्यसुखाय नमः ।

ॐ निर्मलश्रियै नमः । ३५।

ॐ निरञ्जनाय नमः ।

ॐ रक्तमाल्यांबरधराय नमः ।

ॐ रक्तचन्दन-रूषिताय नमः ।

ॐ रजोगुणाकृतये नमः ।

ॐ शूराय नमः । ४०।

ॐ रक्षःकुल-यमोपमाय नमः ।

ॐ नित्य-क्षेमकराय नमः ।

ॐ प्राज्ञाय नमः ।

ॐ पाषण्डजन-खण्डनाय नमः ।

ॐ नारायणाज्ञानुवर्तिने नमः । ४५।

ॐ नैगमान्तः-प्रकाशकाय नमः ।

ॐ बलिनन्दनदोर्दण्डखण्डनाय नमः ।

ॐ विजयाकृतये नमः ।

ॐ मित्रभाविने नमः ।

ॐ सर्वमयाय नमः । ५०।

ॐ तमो-विध्वंसकाय नमः ।

ॐ रजस्सत्त्वतमोद्वर्तिने नमः ।

ॐ त्रिगुणात्मने नमः ।

ॐ त्रिलोकधृते नमः ।

ॐ हरिमायगुणोपेताय नमः । ५५।

ॐ अव्ययाय नमः ।

ॐ अक्षस्वरूपभाजे नमः ।

ॐ परमात्मने नमः ।

ॐ परं ज्योतिषे नमः ।

ॐ पञ्चकृत्य-परायणाय नमः । ६०।

ॐ ज्ञानशक्ति-बलैश्वर्य-वीर्य-तेजः-

प्रभामयाय नमः ।

ॐ सदसत्-परमाय नमः ।

ॐ पूर्णाय नमः ।

ॐ वाङ्मयाय नमः ।

ॐ वरदाय नमः । ६५।

ॐ अच्युताय नमः ।

ॐ जीवाय नमः ।

ॐ गुरवे नमः ।

ॐ हंसरूपाय नमः ।

ॐ पञ्चाशत्पीठ-रूपकाय नमः । ७०।

ॐ मातृकामण्डलाध्यक्षाय नमः ।

ॐ मधु-ध्वंसिने नमः ।

ॐ मनोमयाय नमः ।

ॐ बुद्धिरूपाय नमः ।

ॐ चित्तसाक्षिणे नमः । ७५।

ॐ साराय नमः ।

ॐ हंसाक्षरद्वयाय नमः ।

ॐ मन्त्र-यन्त्र-प्रभावज्ञाय नमः ।

ॐ मन्त्र-यन्त्रमयाय नमः ।

ॐ विभवे नमः । ८०।

ॐ स्रष्ट्रे नमः ।

ॐ क्रियास्पदाय नमः ।

ॐ शुद्धाय नमः ।

ॐ आधाराय नमः ।

ॐ चक्र-रूपकाय नमः । ८५।

ॐ निरायुधाय नमः ।

ॐ असंरम्भाय नमः ।

ॐ सर्वायुध-समन्विताय नमः ।

ॐ ओंकार-रूपिणे नमः ।

ॐ पूर्णात्मने नमः । ९०।

ॐ आंकारस्साध्य-बन्धनाय नमः ।

ॐ ऐंकाराय नमः ।

ॐ वाक्प्रदाय नमः ।

ॐ वाग्मिने नमः ।

ॐ श्रींकारैश्वर्य-वर्धनाय नमः । ९५।

ॐ क्लींकार-मोहनाकाराय नमः ।

ॐ हुंफट्क्षोभणाकृतये नमः ।

ॐ इन्द्रार्चित-मनोवेगाय नमः ।

ॐ धरणीभार-नाशकाय नमः ।

ॐ वीराराध्याय नमः । १००।

ॐ विश्वरूपाय नमः ।

ॐ वैष्णवाय नमः ।

ॐ विष्णु-रूपकाय नमः ।

ॐ सत्यव्रताय नमः ।

ॐ सत्यपराय नमः । १०५।

ॐ सत्यधर्मानुषङ्गकाय नमः ।

ॐ नारायणकृपाव्यूहतेजश्चक्राय नमः ।

ॐ सुदर्शनाय नमः । १०८।

 

श्रीविजयलक्ष्मी-समेत श्रीसुदर्शन-परब्रह्मणे नमः ।

 

॥ श्री सुदर्शनाष्टोत्तरशतनामावलिः सम्पूर्णा ॥

 

***


 

СУДАРШАНА - УПАНИШАДА

सुदर्शनोपनिषत्

sudarśanopaniṣat

 

यज्ञोपवीती धृतचक्रधारी यो ब्राह्मणो ब्रह्मविद्ब्रह्मविदां मनीषी हिरण्यमादाय सुदर्शनं कृत्वा वह्निसंयुक्तं स्त्रीशूद्रैर्बाहुभ्यां धारयेत् । तस्माद्गर्भेण जायते । ब्राह्मणस्य शरीरं जायते । श्रीविष्णुं सर्वेश्वरं भजन्ति ॥

 

नासादिकेशपर्यन्तमूर्ध्वपुड्रं तु धाग्येत् ।

उद्धृतासि वराहेण कृष्णेन शतबाहुना ।

भूमिर्धेनुर्धरणी लोकधारिणी ॥

मृत्तिके देहि मे पुष्टिं त्वयि सर्वं प्रतिष्ठितम् ॥

 

Footnote

तस्माद्द्विरेखं भवति । तं देवकीपुत्रं समाश्रये । अग्निना वै होत्रा चक्रं पाञ्चजन्यं प्रतप्तं द्वयोर्भुजयोर्धारयेत् । आत्मकृतमाचरेत् । आचार्यस्य सम्मुखं प्रपद्येत । तस्माद्वैकुण्ठं न पुनरागमनं सालोक्यसामीप्यसारूप्यसायुज्यं गच्छति । य एवं वेद । इत्युपनिषत् (९) ``यज्ञोपवीतोपनिषत्'' इत्याख्यया या पूर्वं प्रकाशिता सैवेयमेतदवधीति विभाव्यताम् ।

यजुर्वेदे तृतीयकाण्डे तृतीयप्रश्ने - ``कक्षमुपौषेद्यदि दहति पुण्यसमं भवति यदि न दहति पापसममेतेन''। उष दाहे । उपकक्षं भुजः । ``चरणं पवित्रं विततं पुराणम् । येन पूतस्तरति दुष्कृतानि । तेन पवित्रेण शुद्धेन पूताः । अतिपाप्मानमरातिं तरेम । लोकस्य द्वारमर्चिमत्पवित्रम् । ज्योतिष्मद्भ्राजमान महस्वत् । अमृतस्य धारा बहुधा दोहमानम् । चरणं नो लोके सुधितां दधातु'' । ``पवित्रं ते विततं ब्रह्मणस्पते । प्रभुर्गात्राणि पर्येषि विश्वतः । अतप्ततनूर्न तदामो अश्नुते । शृतास इद्वहन्तस्तत्समाशत ।'' यो ह वै सुश्लोकमौले धर्माननुतिष्ठमानोऽग्निना चक्रं योऽग्निर्वै सहस्रारस्सहस्रारो नेमिर्नेमिना तप्ततनूस्सायुज्यं सलोकतामाप्नोतीति ॥

 

चक्रं बिभर्ति वपुषाभितप्तं बलं देवानाममृतस्य विष्णोः ।
स एति नाकं दुरिता विधूय विशन्ति यद्यतयो वीतरागाः ॥

चमूषच्छ्येनश्शकुनो बिभृत्वा गोविन्दद्रप्स आयुधानि बिभ्रत् (?) ।
अपामूर्मिं सचमानस्समुद्रं तुरीयं घाम महिषो विवक्ति (?) ॥

शङ्खचक्रोर्ध्वपुण्ड्रादिधारणं स्मरणं हरेः ।
तदीयाराधनं चैव भक्तिर्बहुविधा स्मृता ॥

पशुपुत्रादिकं सर्वं गृहोपकरणानि च ।
अङ्कयेच्छङ्खचक्राभ्यां नाम कुर्याच्च वैष्णवम् ॥

पशुर्मनुप्यः पक्षी वा ये च वैष्णवसंश्रयाः ।
तेनैव ते प्रयास्यन्ति तद्विष्णोः परमं पदम् ॥

दक्षिणे तु भुजे विप्रो बिभृयाद्वै सुदर्शनम् ।
सव्ये तु शङ्खं बिभृयादिति ब्रह्मविदो विदुः ॥

ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणैः ।
अर्चनीयश्च सेव्यश्च नित्ययुक्तैः स्वकर्मसु ॥

ये कण्ठलयतुलसीनलिनाक्षमाला
ये बाहुमूलपरिचिह्नितशङ्खचक्रा ।
ये वा ललाटफलके लसदूर्ध्वपुण्ड्राः
श्रीवैष्णवा भुवनमाशु पवित्रयन्ति ॥

पञ्चार्द्रतत्त्वविदुषां पञ्चसंस्कारसंस्कृतम् ।
पञ्चावस्थास्वरूपं ते विज्ञेयं सततं विभो ॥

 

पञ्चसंस्कारयुक्तानां वैष्णवानां विशेषतः । गृहार्चनविधाने न शङ्खं घण्टारवं त्यजेत् । इति । एतदथर्वशिरो योऽधीते य ऊर्ध्वपुण्ड्रं विधिवद्विदित्वा धारयति स वैदिको भवति । स कर्मार्हो भवति । अनेन तेजस्वी यशस्वी ब्रह्मवर्चस्वी भवति । अनेक कायिकवाचिकमानसपातकेभ्यः पूतो भवति । श्रीविष्णुसायुज्यमवाप्नोति । श्रीविष्णुसायुज्यमवाप्नोति । य एवं वेद । इत्युपनिषत् ॥

 

(वैष्णव-उपनिषदः)

 

इति सुदर्शनोपनिषत् समाप्त ।

 

***


 

СУНДАРА - БАХУ - СТАВА

सुन्दरबाहुस्तवः

sundarabāhustavaḥ

(पञ्चस्तव्यां ३)

pañcastavyām 3

 

श्रीरस्तु ।

श्रीमते हयग्रीवाय नमः ।

श्रीमते रामानुजाय नमः ॥

 

श्रीवत्सचिह्नमिश्रेभ्यो नमौक्तिमधीमहे ।
यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥

श्रीमन्तौ हरिचरणौ समाश्रितोऽहं श्रीरामावरजमुनीन्द्रलब्धबोधः ।
निर्भीकस्तत इह सुन्दरोरुबाहुं स्तोष्ये तच्चरणविलोकनाभिलाषी ॥१॥

सुन्दरायतभुजं भजामहे वृक्षषण्डमयमद्रिमास्थितम् ।
यत्र सुप्रथितनूपुरापगातीर्थमर्थितफलप्रदं विदुः ॥२॥

क्वचित्त्वरितगामिनी क्वचन मन्दमन्दलसा
क्वचित्स्खलितविह्वला क्वचन फेनिला सारवा ।
पतन्त्यपि किल क्वचिद्व्रजति नूपुराह्वा नदी
सुसुन्दरभुजाह्वयं मधु निपीय मत्ता यथा ॥३॥

उदधिगमन्दराद्रिमथिमन्थनलब्धप-
योमधुररसेन्दिराह्वसुधसुन्दरदोःपरिघम् ।
अशरणमादृशात्मशरणं शरणार्थिजन-
प्रवणधियं भजेम तरुषण्डमयाद्रिपतिम् ॥४॥

शशधररिङ्खणाढ्यशिखमुच्छिखरप्रकरं-
तिमिरनिभप्रभूततरुषण्डमयं भ्रमदम् ।
वनगिरिमावसन्तमुपयामि हरिं शरणं-
भिदुरितसप्तलोकसुविशृङ्खलशङ्खरवम् ॥५॥

यत्तुङ्गशृङ्गविनिषङ्गिसुराङ्गनानां-
न्यस्तोर्ध्वपुण्ड्रमुखमण्डनमण्डितानाम् ।
दर्पण्यभूद्धृतमपाङ्कशशाङ्कपृष्ठं-
तद्धाम सुन्दरभुजस्य महान् वनाद्रिः ॥६॥

यदीयशिखरागतां शशिकलां तु शाखामृगा-
निरीक्ष्य हरशेखरीभवनमामृशन्तस्ततः ।
स्पृशन्ति न हि देवतान्तरसमाश्रितेति स्फुटं-
स एष सुमहातरुव्रजगिरिर्गृहं श्रीपतेः ॥७॥

सुन्दरदोर्दिव्याज्ञालम्भनकातरवशानुयायिनि करिणि ।
प्रणयजकलहसमाधिर्यत्र वनाद्रिस्स एष सुन्दरदोष्णः ॥८॥

स एष सौन्दर्यनिधेर्धृतश्रियो वनाचलो नाम सुधाम यत्र हि ।
भुजङ्गराजस्य कुलस्य गौरवान्न खण्डिताः कुण्डलिनश्शिखण्डिभिः ॥९॥

वृषगिरिरयमच्युतस्य यस्मिन् स्वमतमलङ्घयितुं परस्परेभ्यः ।
खगतिचरणौ खगाश्शपन्ते भुजगपतेर्भुजगाश्च सर्व एव ॥१०॥

हरिकुलमखिलं हनूमदङ्घ्रिं स्वकुलपजाम्बवतस्तथैव भल्लाः ।
निजकुलपजटायुषश्च गृध्राः स्वकुलपतेश्च गजा गजेन्द्रनाम्नः ॥११॥

वकुलधरसरस्वतीविषक्तस्वररसभावयुतासु किन्नरीषु ।
द्रवति दृषदपि प्रसक्तगानास्विह वनशैलतटीषु सुन्दरस्य ॥१२॥

भृङ्गी गायति हंसतालनिभृतं तत्पुष्णती कोकिला-
ऽप्युद्गायत्यथ वल्लितल्लजमुखादास्रं मधु स्यन्दते ।
निष्पन्दस्तिमिताः कुरङ्गततयश्शीतं शिलासैकतं
सायाह्ने किल यत्र सुन्दरभुजस्तस्मिन्वनक्ष्माधरे ॥१३॥

पीताम्बरं वरदशीतलदृष्टिपात-
माजानुलम्बिभुजमायतकर्णपाशम् ।
श्रीमन्महावनगिरीन्द्रनिवासदीक्षं
लक्ष्मीधरं किमपि वस्तु ममाविरस्तु ॥१४॥

जनिजीवनाप्ययविमुक्तयो यतो जगतामिति श्रुतिशिरस्सु गीयते ।
तदिदं समस्तदुरितैकभेषजं वनशैलसम्भवमहं भजे महः ॥१५॥

सद्ब्रह्मात्मपदैस्त्रयीशिरसि यो नारायणोक्त्या तथा
व्याख्यातो गतिसाम्यलब्धविषयानन्यत्वबोधोज्ज्वलैः ।
निस्तुल्याधिकमद्वितीयममृतं तं पुण्डरीकेक्षणं
प्रारूढश्रियमाश्रये वनगिरेः कुञ्जोदितं सुन्दरम् ॥१६॥

पतिं विश्वस्यात्मेश्वरमिति परं ब्रह्म पुरुषः
परं ज्योतिस्तत्वं परमिति च नारायण इति ।
श्रुतिर्ब्रह्मेशादींस्तदुदितविभूतींस्तु गृणती
यमाहारूढश्रीस्स वनगिरिधामा विजयते ॥१७॥

पृथिव्याद्यात्मान्तं नियमयति यस्तत्त्वनिकरं
तदन्तर्यामी तद्वपुरविदितस्तेन भगवान् ।
स एष स्वैश्वर्यं नविजहदशेषं वनगिरिं
समध्यासीनो नो विशतु हृदयं सुन्दरभुजः ॥१८॥

प्रत्यगात्मनि कदाऽप्यसम्भवद्भूमभूमिमभिवक्ति यं श्रतिः ।
तं वनाद्रिनिलयं सुसुन्दरं सुन्दरायतभुजं भजामहे ॥१९॥

वन्देय सुन्दरभुजं भुजगेन्द्रभोग-
सक्तं महावनगिरिप्रणयप्रवीणम् ।
यं तं विदुर्दहरमष्टगुणोपजुष्टं
आकाशमौपनिषदीषु सरस्वतीषु ॥२०॥

यत्स्वायत्तस्वरूपस्थितिकृतिकनिजेच्छानियाम्यस्वशेषा-
नन्ताशेषप्रपञ्चस्तत इह चिदिवाचिद्वपुर्वाचिशब्दैः ।
विश्वैश्शब्दैः प्रवाच्यो हतवृजिनतया नित्यमेवानवद्य-
स्तं वन्दे सुन्दराह्वं वनगिरिनिलयं पुण्डरीकायत


Поделиться с друзьями:

Адаптации растений и животных к жизни в горах: Большое значение для жизни организмов в горах имеют степень расчленения, крутизна и экспозиционные различия склонов...

Индивидуальные и групповые автопоилки: для животных. Схемы и конструкции...

Архитектура электронного правительства: Единая архитектура – это методологический подход при создании системы управления государства, который строится...

Типы оградительных сооружений в морском порту: По расположению оградительных сооружений в плане различают волноломы, обе оконечности...



© cyberpedia.su 2017-2024 - Не является автором материалов. Исключительное право сохранено за автором текста.
Если вы не хотите, чтобы данный материал был у нас на сайте, перейдите по ссылке: Нарушение авторских прав. Мы поможем в написании вашей работы!

0.082 с.